|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.120. अध्यायः 120
Mahabharata - Udyoga Parva - Chapter Topics
ययातिना माधव्याः गङ्गायमुनासङ्गमदेशे स्वयंवरोद्धोषणेन यक्षगन्धर्वादीनां तत्रागमनम् ॥ 1 ॥
माधव्या तु सर्ववरानतिक्रम्य वनमध्ये तपश्चरणम् ॥ 2 ॥
कालान्तरे स्वर्गं ययातेः बहुवर्षसहस्रावसाने सदसि देवर्ष्याद्यवमाननेन सद्यस्तेजोहानिः ॥ 3 ॥
Mahabharata - Udyoga Parva - Chapter Text
नारद उवाच। 5-120-0x(3740)(35846)
स तु राजा पुनस्तस्याः कर्तुकामः स्वयंवरम्।
उपगम्याश्रमपदं गङ्गायामुनसङ्गमे ॥ 5-120-1(35847)
गृहीतमाल्यदामां तां रथमारोप्य माधवीम् ।
पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम् ॥ 5-120-2(35848)
नागयक्षमनुष्याणां गन्धर्वमृगपक्षिणाम् ।
शैलद्रुमवनौकानामासीत्तत्र समागमः ॥ 5-120-3(35849)
नानापुरुषदेश्यानामीश्वरैश्च समाकुलम् ।
ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम् ॥ 5-120-4(35850)
निर्दिश्यमानेषु तु सा वरेषु वरवर्णिनी ।
वरानुत्क्रम्य सर्वास्तान्वरं वृतवती वनम् ॥ 5-120-5(35851)
अवतीर्य रथात्कन्या नमस्कृत्य च बन्धुषु।
उपगम्य वनं पुण्यं तपस्तेपे ययातिजा ॥ 5-120-6(35852)
उपवसैश्च विविधैर्दीक्षाभिर्नियमैस्तथा ।
आत्मनो लघुतां कृत्वा बभूव मृगचारिणी ॥ 5-120-7(35853)
वैदूर्याङ्कुरकल्पानि मृदूनि हरितानि च।
चरन्ती श्लक्ष्णशष्पाणि तिक्तानि मधुराणि च ॥ 5-120-8(35854)
स्रवन्तीनां च पुण्यानां सुरसानि सुचीनि च।
पिबन्ती वारिमुख्यानि शीतानि विमलानि च॥ 5-120-9(35855)
वनेषु मृगराजेषु व्याघ्रविप्रोषितेषु च ।
दावाग्निविप्रयुक्तेषु शून्येषु गहनेषु च ॥ 5-120-10(35856)
चरन्ती हरिणैः सार्धं मृगीव वनचारिणी ।
चचार विपुलं धर्मं ब्रह्मचर्येण संवृतम् ॥ 5-120-11(35857)
ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः।
बहुवर्षसहस्रायुर्युयुजे कालधर्मणा ॥ 5-120-12(35858)
पुरुर्यदुश्च द्वौ वंशे वर्धमानौ नरोत्तमौ ।
ताभ्भां प्रतिष्ठितो लोके परलोके च नाहुषः ॥ 5-120-13(35859)
महीपते नरपतिर्ययातिः स्वर्गमास्थितः।
महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः ॥ 5-120-14(35860)
बहुवर्षसहस्राख्ये काले बहुगुणे गते।
राजर्षिषु निषण्णेषु महीयःसु महर्धिषु ॥ 5-120-15(35861)
अवमेने नरान्सर्वान्देवानृषिगणांस्तथा।
ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः ॥ 5-120-16(35862)
ततस्तं बुबुधे देवः शक्रो बलनिषूदनः ।
ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन् ॥ 5-120-17(35863)
विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम् ।
कोऽन्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः ॥ 5-120-18(35864)
कर्मणा केनसिद्धोऽयं क्व वाऽनेन तपश्चितम्।
कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत ॥ 5-120-19(35865)
एवं विचास्यन्तस्ते राजानं स्वर्गवासिनः ।
दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति ॥ 5-120-20(35866)
विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः ।
पृष्टा आसनपालाश्च न जानीमेत्यथाऽब्रुवन् ॥ 5-120-21(35867)
सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम् ।
स मुहूर्तादथ नृपो हतौजाश्चाभवत्तदा ॥ ॥ 5-120-22(35868)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि विंशत्यधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-120-1 सतु राजा आश्रमपदमुपगम्य कर्तुकाभः अभूदिति शेषः ॥ 5-120-2 पर्यधावतां वरान्वेषणायेत्यर्थः ॥ 5-120-5 वनं वनवासम् ॥ 5-120-10 व्याघ्राणां विप्रोषितं पर्यटनं येषु ॥ 5-120-12 कालधर्मणा मृत्युना ॥ 5-120-13 नाहुषः ययातिः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|